अकः इत्येव। अमि परतोटकः पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति। वृक्षम्। प्लक्षम्। अग्निम्। वायुम्।
पूर्वग्रहणम् किम्? पूर्व एव यथा स्यात्, पूर्वसवर्णो ऽन्तरतमो मा भूतिति, कुमारीम् इत्यत्र हि त्रिमात्रः स्यात्। वा छन्दसि
६।१।१०२ इत्येव, शमीं च, शम्यं च। गौरीं च, गौर्यं च।
पूर्वसवर्णदीर्घत्वे प्राप्ते वचनमिदम्()। दीर्घ इति चेहानुवत्र्तते, अन्यथा हीदं वचनमनर्थकं स्यात्()।
अथ पूर्वग्रहणं किमर्थम्(),
यावता प्रकृतं यत्? पूर्वंग्रहणं तदेवेहानुवर्त्तिष्यत इति? अत आह--"पूर्वग्रहणम्()" इत्यादि। यथाजातीयकः पूर्वस्तथाजातीयक एव यथा स्यादित्येवमर्थं पूर्वग्रहणम्()। एवकारेण यद्व्यवच्छिन्नं तद्दर्शयितुमाह--"पूर्वसवर्णान्तरतमो मा भूत्()" इति। पूर्वसवर्णश्चासावन्तरतमश्चेति कर्मधारयः।
असति हि पूर्वग्रहणे यत्? पूर्वकं पूर्वग्रहणं तेनैवानुवर्त्तितव्यम्(), तस्मिश्चानुवर्तमाने ततसम्बद्धं सव्रणग्रहणपि अनुवत्र्तेत, तथा च "स्थानेऽन्तरतमः"
१।१।४९ इत्यनया परिभाषया पूर्वस्य यः सवर्णः स एव परसज्येत। किं पुनरेवं सत्यनिष्टं स्यात्(),
वृक्षमित्यादौ द्विमात्रस्य स्थानिनो द्विमात्र एव स्यादिति चेत्()? नैतदस्ति; एवं हि वचनमिदमनर्थकं स्यात्(), "प्रथमयोः पूर्वसवर्णः"
६।१।९८ इत्यनेन सिद्धत्वादित्यत आह--"कुमारिमित्यत्र हि" इत्यादि। कुमारीशब्दस्येकारो द्विमात्रः, अमोऽकारो मात्रिकः; तत्समुदायात्मकश्चात्र स्थानी, तत्र पूर्वसवर्णो विधीयमानस्त्रिमात्रलस्य स्थानिनोऽन्तरतमस्त्रिमात्र एव स्यात्, पूर्वग्रहणे तु सति यथाजातीयक एव पूर्वः, तथाजातीयक एव द्विमात्रो भवति।
"वा छन्दसीत्येव" इत्यादि। यदि तरहि "वा छन्दसि"
६।१।१०२ इत्यनुवत्र्तते,
तेन सहास्यैकवाक्यतायां भाषायां परपूर्वत्वं न सिध्यति? नैतदस्ति;
यस्मात्? तदिहानुवर्तमानं पूर्ववद्वाक्यभेदेन च्छन्दस्येव विकल्पं करोति, न भाषायाम्()॥
"अकः सवर्ण" इति बाधित्वा "अतो गुण" इति पररूपं प्राप्तम्-तद्बाधित्वा"प्रथमयो"रिति पूर्वसवर्णदीर्घे प्राप्ते -- अमिपूर्वः। "अकः सवर्णे दीर्घ" इत्यतोऽक इति पञ्चम्यन्तमनुवर्तते। "एकः पूर्वपरयो"रित्यधिकृतम्। "इको यणची"त्यतोऽचीत्यनुवर्तते। तदाह--अकोऽम्यचीति। अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थः। "राम"मिति मकारादकारस्य अमवयवाऽकारस्य च पूर्वरूपमकार एको भवति। अचीत्यनुवृत्तौ "अकोऽमि परे पूर्वपरयोः पूर्वरूपमेकादेशः स्या"दिति लभ्यते। तथा सति अमो मकारसहितस्य पूर्वरूपं स्यात्। तन्मा भूदित्यजनुवृत्तिः। रामाविति। राम औडिति स्थिते हलन्त्यमिति टकारस्य इत्संज्ञायां लोपः औटष्टकारः सुडिति प्रत्याहारार्थः।
अमिपूर्वः। "प्रथमयो"रिति पूर्वसवर्णदीर्घे प्राप्तेऽयमारम्भः। "इको यणची"त्यतोऽचीत्यनुवर्तते, तदाह--अम्यचीति। अमि योऽच् तस्मिन्। अमोऽवयवे अचीति यावत्। तेन मकारसहितस्य पूर्वरूपं नेति स्थितं मनोरमायाम्। एवम् "अक्षादूहिन्या"मित्यादावपि "ऊहिन्यां योऽच्तस्मि"न्नित्यादि बोध्यम्। "पदास्वैरिबाह्रे"त्यादिनिर्देशाश्चास्मिन्व्याख्याने लिङ्गमित्यपि स्थितम्। कथं तर्हि काशिकादावमि परत इत्येवोक्तं, न त्वम्यचीति चेदत्राहुः-"तस्मादित्युत्तरस्या," "आदेः परस्ये"त्यादेरेवादेश इति निर्णीते "एकः पूर्वपरयो"रित्यादेशः पूर्वपरयोर्वर्णयोरेव भविष्यतीत्याशयेन नोक्तमिति।